________________
१६७६
वृद्धगौतमस्मृतिः। [सप्तमोदरिद्रायैव दातव्यं न समृद्धाय पाण्डव ! । वर्षाणां हि तटाकेषु पञ्चदश्यां समाहितः ॥ योहि दद्यादनडाहौ द्वौ युक्तौ च धुरन्धरौ। सुवृत्ताय दरिद्राय श्रोत्रियाय विशेषतः ॥१० तस्य यत्पुण्यमाख्यातं तच्छृणुष्व युधिष्ठिर !। गोसहस्रप्रदानेन यत्प्रोक्तं फलमुत्तमम् ॥११ तत्पुण्यफलमासाद्य याति लोकान् स मामकान् । यावन्ति चैव रोमाणि तयोश्वानडुहो नृप ! ॥१२ तावद्वर्षसहस्राणि मम लोके महीयते । दरिद्रायैव दातव्यं न समृद्धाय पाण्डव ! ॥१३ वर्षाणां हि तटाकेषु फलं नैव पयोधिषु । तस्मादनडुहन्दद्यादरिद्राय द्विजाय वै॥१४ स तेन पुण्यदानेन पूतात्मा कुरुपुङ्गव !। विमानन्दिव्यमारुढो दिव्यरूपी यथासुखम् ॥१५ मम लोकेषु रमते यावदाभूतसंप्लवम् । गृहं दीपप्रभायुक्तं शय्यासनविभूषितम् ॥१६ भाजनोपस्करयुक्तं धान्यं पूर्णमलड्कृतम् । दासीगोभूमिसंयुक्तं संयुक्तं सर्वसाधनैः ॥१७ ब्राह्मणाय दरिद्राय श्रोत्रियाय युधिष्ठिर !। दद्यात्सदक्षिणं यस्तु तस्य पुण्यफलं शृणु ॥१८ देवाः पितृगणाश्चैव सिद्धयस्त्वषयस्तथा । प्रयच्छन्ति प्रणष्टा वै यानमादित्यसन्निभम् ।।११