________________
ऽध्यायः]
१९७५
वृषदान महत्त्ववर्णनम् ।
सप्तमोऽध्यायः। अथ वृषदान महत्त्ववर्णनम् वैशम्पायन उवाच ।
वासुदेवेन दानेषु कथितेषु यथाक्रमम् । अवितृप्तस्तु धर्मषु राजा केशवमब्रवीत् ॥१ देव ! धर्मामृतमिदं शृण्वतोऽपि परन्तप !। न विद्यते नरश्रेष्ठ ! मम तृप्तिर्हि माधव ! ॥२ अनडुत्सम्प्रदानस्य यत्फलन्तु विधीयते । तत्फलं कथयस्वेह तव भक्तस्य मेऽच्युत !॥३ यानि दानानि वार्ष्णेय ! त्वया नोक्तानि कानि च । तान्याचक्ष्व सुरश्रेष्ठ ! तेषाश्चापि क्रमात्फलम् ॥४
श्रीभगवानुवाच । शृणु धर्मविदां श्रेष्ठ ! दत्तस्यानडुहः फलम् । पवित्रत्वात् सुपुण्यत्वात् पावनत्वात्तथैव च ॥५ दशधेनुसमोऽनड़ानेकोऽपि कुरुपुङ्गव !। मेदोमांसविपुष्टाङ्गोनीरोगः पापवर्जितः ॥६ युवा भद्रः सुशीलश्च सर्वदोषविवर्जितः । धुरन्धरस्तारयति दत्तो विप्राय पाण्डव ! ॥७ स तेन पुण्यदानेन पञ्चकोटी युधिष्ठिर!। यथा मम महातेजा मम लोके महीयते ।।८ १२४