________________
[षष्ठो
१६७४
वृद्धगौतमस्मृतिः। सत्रयाजी शतायुश्च जायते सद्भिरचितः । तिला गावः सुवर्णञ्च तथा कन्या वसुन्धरा ॥१७२ तारयन्तीह दत्तानि ब्राह्मणेभ्यो महाभुज ! । ब्राह्मणं वृत्तसम्पन्नमाहिताग्निमलोलुपम् ।।१७३ दापयेद्विधिवद्राजन् ! सन्निधिः पारलौकिकः। आहिताग्निं दरिद्रञ्च श्रोत्रियञ्च जितेन्द्रियम् ॥१७४ स्वकर्मनिरतञ्चैव द्विजं यत्नेन पूज्येत् । अहिताग्निः सदा पात्रं सदा पात्रञ्च वेदवित् ॥१७५ पात्राणामपि तत्पात्रं शूद्रान्नं यस्य नोदरे। सर्ववेदमयं पात्रं सर्वपात्रं तपोमयम् ।।१७६ असङ्कीर्णञ्च यत्पात्रं तत्पात्रं तारयिष्यति । दृढस्वाध्यायनियमाः स्वप्रकीर्णेन्द्रियाश्च ये ॥१७७
पञ्चयज्ञरता नित्यं पूजितास्तारयन्ति ते ॥१७८ ये क्षान्तदान्ताश्च तथाभिपूर्णा जितेन्द्रियाः प्राणिवधे निवृत्ताः । प्रतिग्रहे सङ्कुचिता गृहस्था स्तेब्राह्मणास्तारयितुं समर्थाः ॥१७६ नित्योदकी नित्ययज्ञोपवीती नित्यस्वाध्यायी वृषलान्नवर्जी । मृतञ्च छत्रादिकं योविधिनाददाति स ब्राह्मणस्तारयितुं समथः॥
ब्राह्मणो यस्तु मद्भक्तो मद्याजी मत्परायणः । मयि सन्यस्तकर्मा च स विप्रस्तारयिष्यति ॥१८१ द्वादशाक्षरतत्वज्ञश्चातुर्वण्यं विभागवित् । अच्छिद्रः पञ्चकालज्ञः सविप्र स्तारयिष्यति ॥१८२ इति श्रीगौतमोये वैष्णवधर्मशास्त्रे षष्ठोऽध्यायः ।