________________
ऽध्यायः] गोदानप्रकरणे तिलधेनुदान महत्त्ववर्णनम्। १९७३
श्रोत्रियाय दरिद्राय शृणु तस्यापि यत्फलम् । गोसहस्रप्रदानेन यत्पुण्यं समुदाहृतम् ॥१६२ तत्पुण्यफलमाप्नोति तिलधेनुप्रदो नरः। तिलानान्तु यवैर्यस्तु तिलधेनुं प्रयच्छति ॥१६३ तावत्कोटिसहस्राणि स्वर्गलोके महीपते । आषाढकैस्तिलैः कृत्वा तिलधेनुं नराधिप !॥१६४ द्वात्रिंशनिष्कसंयुक्तं विष्णवे यः प्रयच्छति । मद्भक्तो मद्गतात्मा च तस्य पुण्यफलं शृणु । कन्यादानसहस्रस्य विधिदत्तस्य यत्फलम् ॥१६५ तत्पुण्यं समनुप्राप्तो मम लोके महीयते। मम लोकावतीर्णश्च सोऽस्मिन् लोके हि जायते ॥१६६ मुग्यजुः सामवेदानां पारगो ब्राह्मणर्षभः। गान्तु यस्तु दरिद्राय ब्राह्मणाय प्रयच्छति ॥१६७ प्रसन्नाढीरिणों पुण्यां सवत्सां कांस्यदोहनाम् । यत्किश्चित् दुष्कृतं कर्म तस्य पूर्वकृतं नृप ! ॥१६८ तत्सर्व तत्क्षणादेव विनश्यति न संशयः। यानश्च दोषसंयुक्तं दीप्यमानमलकृतम् ।।१६६ आरूढः कामगन्दिव्यङ्गोलोकमभिगच्छति । यावन्ति चैव रोमाणि तस्या गोस्तु नराधिप !॥१७० तावद्वर्षसहस्राणि गवां लोके महीयते । गोलोकादवतीर्णस्तु लोकेऽस्मिन् ब्रह्मणो भवेत् ॥१७१