________________
[षष्ठो
१६७२ · वृद्धगौतमस्मृतिः।
स मुक्तः सर्वपापेभ्यो बालसूर्यसमप्रभः । दिव्यं विमानमारूढः कामगः कामरूपवान् ।।१४२ वर्षकोटिं महातेजा मम लोके महीयते । ततः कालावतीर्णश्च सोऽस्मिन् लोके महीयते ॥१४३ वेदवेदाङ्ग विद्विप्रः कोटियज्ञपति महान् । यश्वरूप्यं प्रयच्छेत दरिद्राय द्विजातये । शक्रवृत्तः शक्रशकः स मुक्तः सर्वकिल्विषैः ॥१४४ पूर्णचन्द्रप्रकाशेन विमानेन विराजता। कामरूपी यथाकामं स्वर्गलोके महीयते ॥१४५ ततोऽवतीर्णः कालेन लोकेऽस्मिन् स महायशाः। सर्वलोकार्चितः श्रीमान् राजा भवति वीर्यवान् ॥१४६ तिलपर्वतकं यस्तु श्रोत्रियाय प्रयच्छति । विशेषेण दरिद्राय तस्यापि शृणु यत्फलम् । पुण्यं वृषायुतोत्सर्ग यत्प्रोक्तं पाण्डुनन्दन ! ॥१४७ तत्पुण्यं समनुप्राप्तस्तरक्षणाद्विरजा भवेत् । यथा त्वचं भुजङ्गो वै त्यक्त्या शुभ्रतनुर्भवेत् ॥१४८ तथा तिलप्रदानाद्वै पापं त्यक्त्वा विशुध्यति । तिलवर्णप्रयुक्तश्च जाम्बूनदविभूषितः ॥१४६ विमानवरमारूढः पितृलोकं स गच्छति । षष्टिवर्षसहस्राणि कामरूपी महायशाः॥१६० तिलपादानाद्रमते पितृलोके यथासुखम् । यः प्रयच्छति विप्राय तिलधेनुं नराधिप !॥१६१