________________
ऽध्यायः ]
परिष्कृतक्षेत्रदानमाहात्म्यवर्णनम् । १६७१
वयोश्च परिभ्रष्टो विष्ठायां जायते क्रिमिः । तत्र तत्रव जायेत नोत्तरं विन्दते पुनः ॥ १३२ फालाकृष्टा मही देया सबीजा शस्यमालिनी । अथवा सोदका देया दरिद्राय द्विजाय वे ॥१३३ एवं दत्त्वा महीं राजन् ! प्रहृष्टेनान्तरात्मना । सर्वान् कामानवाप्नोति मनसा चिन्तितानपि । बहुभिर्वसुधा दत्ता दीयन्ते च नराधिपैः ।। १३४ यस्य यस्य यदा भूमि स्तस्य तस्य तदा फलम् । यः प्रयच्छन्ति कम्यां वै सभूषां श्रोत्रियाय च ॥१३५ स दो हि राजेन्द्र ! तस्य पुण्यफलं शृणु । वलीवर्दसहस्राणां दत्तानां धूर्यवाहिनाम् ॥१३६ यत्फलं लभ्यते राजन् ! कन्यादानेन तत्फलम् । षष्टिवर्षसहस्राणि मम लोके महीयते ॥ १३७ ततश्चापि च्युतः कालादिह लोके स जायते । पितरस्तस्य तृप्यन्ति ये प्रयच्छन्ति कन्यकाम् ॥१३८ यावन्ति चैव रोमाणि कन्यायाः कुरुनन्दन ! | तावद्वर्षसहस्राणि मम लोके महीयते ॥ १३६ ततश्चापि च्युतः कालादिह लोके स जायते । षडङ्गविश्चतुर्वेदी सर्वलोकार्चितो द्विजः ॥१४० यः सुवर्ण दरिद्राय ब्राह्मणाय प्रयच्छति । श्रोत्रियाय सुवृत्ताय बहु भूयश्च पाण्डव ! ॥१४१