________________
[ षष्ठो
१६७०
वृद्धगौतमस्मृतिः। यथा बिभर्ति गौवत्सं सृजति क्षीरमात्मनः । तथासर्वगुणोपेतं भूमिदम्पाति सम्पदा ॥१२१ यथा द्विजा निराहन्ति जलसिक्तानि भूतले । तथा कामत्रिपुरो हन्ति भूमिदस्य दिने दिने ॥१२२ यथोदयस्थसूर्यस्तु तमः सर्व व्यपोहति । तथा पापानरस्येह भूमिदानं व्यपोहति ॥१२३ दानाद्दशानुगृह्णाति यो हरेदश हन्ति सः । अतीतानागतानीह कुलानि कुरुनन्दन ! ॥१२४ आश्रित्य भूमिमदत्ता दत्त्वा वा यो हरेत् पुनः। स चान्धो वारुणैः पाशैः क्षिप्यते पूयशोणिते ।।१२५ स्वदत्ता परदत्तां वा यो हरेत् वै वसुन्धराम् । न तस्य नरका घोरा निवर्तन्ते न निष्कृतिः ॥१२६ ब्राह्मणस्य हृते क्षेत्रेहन्याद् द्वादशपूरुषान् । प्राप्नोति भूमियोनिश्च न च मुच्येत जातु सः॥१२७ दत्त्वा भूमि द्विजेन्द्राय यस्तामेवोपजीवति । पणं शतसहस्रस्य हन्तुः सा लभ्यते फलम् ॥१२८ सोऽवाक्शिरास्तु पापात्मा कुम्भीपाकेषु पच्यते । दिव्यैवर्षसहस्रेस्तु कुम्भीपाकाद्विनिर्गतः ।।१२६ इह लोके भवेच्छापैः शतजन्मानि पाण्डव !। दत्त्वा भूमिं तु देवानां यस्तामेवोपजीवति ॥१३० विनाश्य स्वकुलं याति नरकानेकविंशतिम् । नरकेभ्योविनिर्मुक्तः शुनां योनि स गच्छति ॥१३१