________________
ऽध्यायः] गोदानमाहात्म्यवर्णनम् ।
१६६६ ___ श्रीभगवानुवाच । शृणु गोकर्णमात्रस्य प्रमाणं पाण्डुनन्दन !। त्रिंशद्दण्डप्रमाणेन प्रमितं सर्वतोदिशम् ॥१११ प्रत्यक्परागपि राजेन्द्र ! तत्तथा दक्षिणोत्तरम् । तत् गोकर्णमिति प्राहुः प्रमाणोद्धरणे नृप ! ॥११२ सवंषां गोशतं यत्र सुखं तिष्ठति यत्नतः । स वत्स ! नरशार्दूल ! व तद्गोकर्ण मुच्यते ॥११३ किङ्करा मृत्युदण्डाश्च क्रमपाकाश्च दारुणाः । घोराश्च वारुगाः पापाः नोपान्ति भूमिदम् ॥११४ निराधारा वाद्यास्तु तथा वैतरणी नदी । वीवास्तु यातनाः कष्टाः नोपसर्पन्ति भूमिदम् ॥११५ चित्रगुपः कलिः कालो गृहा वै मृत्युरेव च । यमश्च भगवान् साक्षात्पूजयन्ति महीप्रदम् ॥११६ रुद्रः प्रजापतिः शक्रः सुराः ऋषिगणास्तथा । अहश्च प्रीतिमान राजन् ! पूजयामो महीप्रदम् ॥११७ कृशशक्रस्य वृत्तस्य कृशगोश्च कृशातिथैः । भूमिया नरश्रेष्ठ ! सन्निधिः पारलौकिकम् ॥११८ सीदमानं कुटुम्बाय श्रोत्रियायाग्निहोत्रिणे। वृद्धस्थाय दरिद्राय भूमिया नराधिप ! ॥११६ यथा जनित्री क्षीरेण पुत्रं वर्द्धयति स्वकम् । दातारमनुगृह्णाति दत्ता ह्येवं वसुन्धरा ॥१२०