________________
[षष्ठो.
१९६८
वृद्धगौतमस्मृतिः। अग्निष्टोमादिभियज्ञर्ये यजन्ति सदक्षिणः । न तत्फलं भवेत्तेषां भूमिदानस्य यत्फलम् ॥१०१ श्रोत्रियाय महीं दत्त्वा यो हिनस्ति न पाण्डव !। तजनाः कथयिष्यन्ति यावल्लोकाः प्रतिष्ठिताः॥१०२ तावत्सर्गोपभोगानां भोक्तारं पाण्डुनन्दन ! । शस्यपूर्णा महीं यस्तु श्रोत्रियाय प्रयच्छति ॥१०३ पितरस्तस्य कुम्यन्ति यावदाभूतसंप्लवम् । मम रुद्रस्य सवितु स्त्रिदशानां तथैव च ॥१०४ प्रीतये बिद्धि राजेन्द्र : भूमि दत्त्वा द्विजाय वै । स च पुण्येन पूतात्मा दाता भूमे युधिष्ठिर ! ॥१०५ मयि सायुज्यतां याति नात्र कार्या विचारणा । यत्किञ्चित्कुरुते पापं पुरुषो वृत्तिकर्शितः ॥१०६ स च गोकर्णमात्रेण भूमिदानेन शुध्यति । वेदानां पारगो यस्तु परं पुण्य मुदाहृतम् ॥१०७ भूमिर्गोकर्णमात्रेण तत्फलन्तु विधीयते । मासोपवासे यत्पुण्यं चीर्णे चान्द्रायणेऽपिवा ॥१०८ भूमेर्गोकर्णमात्रेण तत्फलन्तु विधीयते ॥१०६
युधिष्ठिरउवाच । देवदेव ! नमस्तेऽस्तु वासुदेव ! सुरेशर ! । गोकर्णस्य प्रमाणं मे वक्तुमर्हसि मानद ! ॥११०