________________
[ षष्ठो
वृद्धगौतमस्मृतिः। सर्वातिथ्यन्तु यः कुर्याद्वर्षमेकमकल्मषम् । धर्मार्जितधनोभूत्वा पाकभेदविवर्जितः ॥७६ देवानिव स्वयं विप्रानर्चयित्वा पितृनपि । विप्रो नाग्राशनाशी य स्तस्य पुण्यफलं शृणु ।।८० वर्षेणैकेन यावन्ति पुण्यानश्नन्ति वै द्विजाः। ताद्वर्षसहस्राणि मम लोके महीयते ।।८१ ततश्चापि च्युतः कालादिह लोके महीयते । वेदशास्त्रार्थतत्वज्ञो भोगवान् ब्राह्मणोभवेत् ॥८२ सर्वातिथ्यन्तु यः कुर्याद्यथाश्रद्धन्नरेश्वर !। अकालनियमेनापि सत्यवादी जितेन्द्रियः ॥८३ सत्यसन्धो जितक्रोधः सदा धर्मेषु निष्ठितः । अधर्मभीरु धर्मिष्ठो मायामात्सर्य्यवर्जितः ॥८४ श्रद्दधानः शुचिनित्यं पाकभेदविवर्जितः । स विमानेन दिव्येन दिव्यरूपी महायशाः ।।८५ पुरन्दरपुरं याति गीयमानोऽप्सरोगणैः । मन्वन्तरञ्च तत्रव क्रीड़ित्वा देवपूजितः ॥८६ मानुष्यं लोकमागम्य भोगवान् ब्राह्मणोभवेत् । दश जन्मानि भूपत्वं प्राप्नुयाद्राजपूजितः ।।८७ जातिस्मरश्च भवति यत्र तत्रैव जायते । अतः परं प्रवक्ष्यामि भूमिदान मनुत्तमम् ।।८८ यः प्रयच्छति विप्राय भूमिं रम्यां सुदक्षिणाम् । श्रोत्रियाय दरिद्राय साग्निहोत्राय पाण्डव ! ॥८६