________________
१६६५
ऽध्यायः] अतिथिमाहात्म्यवर्णनम् ।
तेषां यशोभिः कामानां दत्तमिष्टश्च यद्भवेत् । वृथा भवति तत्सर्वमाशया यतया हतम् ।।६८ देशं कालञ्च पात्रञ्च स्वशक्तिञ्च निरोक्ष्य च । अल्पं वा सुमद्वापि कुर्यादातिथ्यमात्मवान् ॥६६ सुमुखः सुप्रसन्नात्मा धीमानतिथिमागतम् । स्वागतेनासनेनाद्भिरन्नाद्यन च पूजयेत् ।।७० प्रियो वा यदिवा द्वेष्यो मूर्खः पण्डित एव वा। प्राप्तो यो वैश्वदेवान्ते सोऽतिथिः स्वर्गसंक्रमः ॥७१ क्षुत्पिपासाश्रमान्य देशकालगताय च । सत्कृत्यान्नं पूदातव्यं यज्ञस्य फलमिच्छता ॥७२ भोजयेदात्मनश्रेष्ठान्विधिवत्पूजितात्मनः । अन्नं पाणो मनुष्याणा मन्नदः पाणदोभवेत् ।।७३ तस्मादन्नं विशेषेण दातव्यं भूति मिच्छता । अन्नदः सर्वकामैस्तु सूपतृप्रस्त्वलकृतः ॥७४ पूर्णचन्द्र प्रकाशेन विमानेन विराजितः । सेव्यमानो वरस्त्रीभि देवलोकं स गच्छति ॥७५ क्रीड़ित्वा तु तत स्तस्मिन्वर्षकोटि यथामरम् । ततश्चापि च्युतः कालादिह लोके महायशाः ।।७६ वेदशास्त्रार्थ तत्वज्ञो भोगवान् ब्राह्मणो भवेत् । सर्वातिथ्यन्तु यः कुर्य्यान्मनुष्य स्तूपजायते ।।७७ महाधनपतिः श्रीमान् वेदवेदाङ्गपारगः । सर्वशास्त्रार्थविद्विद्वान् भोगवान् ब्राह्मणो भवेत् ॥७८