________________
१६६४ वृद्धगौतमस्मृतिः। [षष्ठो
शीघ्र पापविनिर्मुक्तो मया चानुगृहीतकः ।
विमानेनैव कल्पेन यमलोकं स गच्छति ॥५७ अभ्यागतं श्रान्तमनुव्रजद्भिर्देवाश्च सर्वे पितरोऽग्नयश्च । अस्मिन् द्विजे तत्र च पूजिताः स्युगते निराशा अपि ते प्रयान्ति ॥५८
अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते । पितरस्तस्य नाश्नन्ति दशवर्षाणि पञ्च च ॥५६ वर्जितः पितृभिलुब्धः स देवैरग्निभिः सदा । निरयं रौरवं गत्वा दशवर्षाणि पच्यते ॥६० ततश्चापि च्युतः कालादिह लोके नराधमः । श्वा वै द्वादशवर्षाणि जायते क्षुत्पिपासितः ॥६१ चाण्डालोऽप्यतिथिः प्राप्तो देशकालौ च कादया। अभ्युद्गतगृहस्थेन पूजनीयः स सर्वथा ॥६२ अनर्चयित्वा योऽश्नाति लोभमोहितचेतसः । चण्डालत्व मवाप्नोति दशवर्षाणि पाण्डव ! ॥६३ निराशमतिथिं कृत्वा भुक्तवान् स प्रणष्टवान् । न जानात्यात्मनात्मानं विष्ठाकूपे निपातितम् ॥६४ मोघं धूपं प्रोन्नयन्ति मोघं स्यात्तत्तु पच्यते । मोघमन्नस्य चाश्नन्ति योऽतिथिं न प्रपूजयेत् ॥६५ साङ्गोपाङ्गांस्तु यो वेदान् पठतीह दिने दिने । नचातिथिं पूजयति वृथा स पठति द्विजः॥६६ नित्यमग्नौ पाकयज्ञैः सोमसंस्थाभिरेव च । ये यजन्ति न चाश्नन्ति गृहेष्वतिथिमागतम् ।।६७