________________
१९६२ वृद्धगौतमस्मृतिः। [षष्ठो
विविधं परमं भूप ! तस्यपुण्यफलं शृणु। कपिलाद्यसहस्रे तु दत्ते यत्पुण्यमिष्यते ॥३५ तत्पुण्यमखिलं प्राप्य शकलोकं महीयते । स शक्रभवने रम्ये वर्षकोटिशतं नृप ! ॥३६ यथाकामं महातेजाः क्रीडत्यप्सरसाङ्गणैः। अग्रान्नं यो दिनं दद्याह्मिजाय नियतब्रतम् ॥३७ दशवर्षाणि राजेन्द्र ! तस्य पुण्यफलं शृणु। कपिलाशतसहस्रस्य विधिदत्तस्य यत्फलम् ।।३८ तत्पुण्यफलमादाय पुरन्दरपुरं व्रजेत् । स शक्रभवने रम्ये कामरूपी यथासुखम् ॥३६ दशकोटिसमा राजन् ! क्रीड़ते सुरपूजितः। शक्रतुल्यावतीर्णश्च अक्लेशेन महणुतिम् ॥४० चतुर्वेदी द्विजः श्रीमान् जायते राजपूजितः। अध्वश्रान्ताय विप्राय क्षुधितायानकाङ्खिणे ॥४१ देशकालाभियाताय दीयते पाण्डुनन्दन !। याचतेऽन्नं न दद्याद्वा हसमाने पराक्रमे ॥४२ स लुब्धो नरकं याति कृमीणां कालसूतकम् । स तत्र नरके घोरे लोभमोहितचेतनः ॥४३ शतवर्षसहस्राणि क्लिश्यते वेदनादितः । तस्माश्च नरकात्त्यक्तः कालेन महता हि सः ॥४४ दरिद्रो मानुषे लोके चण्डालेष्ववजायते । यस्तु पांसुलपादस्तु दूराध्वश्रमकर्शितः ॥४५