________________
१६६१
ऽध्यायः] अन्नदानमाहात्म्यवर्णनम् ।
अन्नाद्भवन्ति राजेन्द्र ! श्रुतिरेषा सनातनी। विद्यास्थानानि सर्वाणि सर्वयज्ञाश्च पावनाः ।।२४ अन्नाद्यस्मात् प्रवर्तन्ते तस्मादन्नं परं स्मृतम् । देवा रुद्रादयः सर्वे पितरो जनयस्तथा ।।२५ जस्मादन्नेन तुष्यन्ति तस्मादन्नं विशिष्यते । यस्मादनात्प्रजाः सर्वाः कल्पे कल्पेऽसृजत्प्रभुः ॥२६ तस्मादन्नात्परं दानं न भूतो न भविष्यति । यस्मादन्नं प्रवर्तन्ते धर्मार्थकाममेव हि ॥२७ तस्मादन्नात्परं दानं नामुत्रेह च पाण्डव !। यक्षरक्षोगणा नागा भूता देत्याश्च दानवाः ।।२८ तुष्यन्त्यन्नेन यस्मात्तु तस्मादन्नं परम्भवेत् । परान्नमुपभुञ्जानो यत्कर्म कुरुते शुभम् ।।२६ तच्छुभैकस्य भागस्तु कर्तुर्भवति भारत !। अन्नदस्य त्रयो भागा भवन्ति भरतर्षभ !। तस्मादन्नं प्रदातव्यं ब्राह्मणेभ्यो विशेषतः। ब्राह्मणाय दरिदाय योऽन्नं सम्बत्सरं नृप ! ॥३१ श्रोत्रियाय प्रयच्छन् वै पाकवेदविवर्जितः। दम्भाचारवियुक्तस्तु परां भक्तिमुपागतः ॥३२ स्वधर्मेणार्जितायान्नं तस्य पुण्यफलं शृणु । गोसहस्रप्रदानेन यत्पुण्यं समुदाहृतम् ॥३३ तत्पुण्यफलमाप्नोति नरो वै नात्र संशयः । अर्घसम्बत्सरं दद्यादप्रभैक्षमयाचते ॥७४