________________
[षष्ठो .
१९६०
वृद्धगौतमस्मृतिः। तत्तोयं सर्वदानानां मूलमित्युच्यते बुधैः ।। यतः सर्वाणि भूतानि जीबन्ति प्रभन्ति च ॥१४ तस्मात्सर्वेषु दानेषु तोयदानं विशिष्यते । सर्वदानतपोयज्ञेयत्प्राप्यं फलमुत्तमम् ॥१५ तत्सर्वं तोयदानेन प्राप्यते नात्र संशयः। ये प्रयच्छन्ति विप्रेभ्यः स्वन्नदानं सुसंस्कृतम् । तस्माजाताः स्वयं प्राणा भवन्ति पुरुषर्षभ ! ॥१६ अन्नभुक्तञ्च भुक्तञ्च अन्ने जीवः प्रतिष्ठितः। इन्द्रियाणि च बुद्धिश्च पुष्यन्तेऽन्नेन नित्यशः॥१७ अन्नेनैव हि जीवन्ति सर्वभूतानि पाण्डव !। तेजोबलञ्च रूपश्च सत्वं वीयं द्युतिर्मतिः ॥१८ ज्ञानमेव तथायुश्च सर्वमन्ने प्रतिष्ठितम् । देवदानवतिर्यक्षु सर्वलोकेषु सर्वथा ॥१६ सर्वकालं हि सर्वेषा मन्नं प्राणाः प्रतिष्ठिताः । अन्नं पूज्यं यतो रूप मन्नं नित्यं नमस्कृतम् ॥२० सर्वभूतमयश्चैव सर्वप्राणमयं स्थितम् । अन्नेनाधिष्ठितप्राणोऽनपानो व्यानमेव च ॥२१ उदानश्च समानञ्च धारयन्ति शरीरिणः । शयनोत्थानगमनग्रहणाकर्षणानि च ॥२२ सर्वसत्वकृतं कर्म अन्नादेव प्रवर्तते । चतुर्विधानि भूतानि जङ्गमानि स्थिराणि च ॥२३