________________
१६५६.
ऽध्यायः] जलदानमाहात्म्यवर्णनम् ।
वैशम्पायनउवाच।। एवमुक्तो हृषीकेशो धर्मपुत्रेण धीमता । उवाच धर्मपुत्राय धर्मान् पुण्यान् महोदयान् ॥४
श्रीभगवानुवाच । शृणुष्वावहितो राजन् ! पूतम्पावनमुत्तमम् । सर्वदानफलं सौम्य ! तेन श्राव्यमकर्मणाम् ॥५ यच्छु त्वा पुरुषः स्त्री वा नष्टपापाः समाहिताः। तत्क्षणात्यूततां यान्ति पापकर्मरता अपि ॥६ एकाहमपि कौन्तेय ! भूमावुत्पादितं जलम् । सत्यं तारयते पूर्वा तृष्णा यत्र च गौर्भवेत्॥७ पानीयं परमं लोके जीवानां जीवनं परम् । पानीयस्य प्रदानेन तृप्तिर्भवति शाश्वती ॥८ पानीयस्य गुणा दिव्या परलोकसुखावहा । तत्र पुण्योदकी नाम नदी परमपावनी ॥ कामन्ददाति राजेन्द्र ! तोयदानं यमालये। शीतलं सलिलं तस्यामक्षय्यममृतोपमम् ॥१० क्षीरतोयं प्रदातृणां भवेहीघ सुखावहम् । ये चापि तोयदातारो भूयस्तेषां विधीयते ॥११ प्रशान्त्यत्यम्बुपानेन विभक्षा च युधिष्ठिर !। तृषितस्य नचान्येन पिपासापि प्रणश्यति ॥१२ तस्मात्तोयं सदा देयं तृषितेभ्यो विजानता। अमितिः क्षितेयोनिः स्मृतस्य च सुखम्भुवा ॥१३ १२३