________________
[षष्ठो
१६५८. वृद्धगौतमस्मृतिः।
यान्ति वैवस्वतपुरं देवगन्धर्वसेविताम् । ये मामेकात्मभावेन भक्त्या त्र्यम्बकमेव वा ॥११६ पूजयन्ति नमस्यन्ति स्तुवन्ति च दिने दिने । धर्मराजपुरं यान्ति याने स्तव समप्रभैः ॥१२० पूजितास्तत्र धर्मेण स्वधर्माद्यादिभिर्गुणैः । यान्त्येव मम लोकं वा रुद्रलोक मथापि वा ॥१२१ इति श्रीगौतमीये वैष्णवधर्मशास्त्रे पञ्चमोऽध्यायः।
षष्ठोऽध्यायः। अथ सर्वदानफलवर्णनम् ।
वैशम्पायन उवाच । श्रुत्वा धर्मपुराथं वा जीवानां गमनं तथा । धर्मपुत्रः प्रहृष्टात्मा केशवं पुनरब्रवीत्।
युधिष्ठिर उवाच । देव ! देवेश ! दैत्यघ्न ! सदा देवैरभिष्टुत !। भवान् भवकर ! श्रीमान् सहस्रादित्यतेजसः ॥१ सर्वसंहारसर्वज्ञ ! सर्वधर्मप्रवर्तक । सर्वदानफलं सौम्य ! कथयस्व ममाच्युत ! ॥२ दानं कृत्वा कथं कृष्ण ! कीदृशाय द्विजाय वै। कीदृशं वा तपः कृत्वा तत्फलं वाथ भुज्यते ॥३