SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः ] शुभाशुभकमकर्तृणां पाणिनां यमयातनावर्णनम् । १६५७ पक्षोपवासिनो यान्ति यानैः शार्दूलयोजितैः । धर्मराजपुरं रम्यं दिव्यत्रीगणसेवितम् ॥१०६ ये च मासोपवासं वै कुर्वन्ते संयतेन्द्रियाः। तेऽपि सूर्योदयप्रख्यै र्यान्ति यानै र्यमालयम् ॥११० अग्निप्रवेशं पञ्चापि कुरुते मद्गतात्मना । स यात्यमिप्रकाशेन विमानेन यत्रालयम् ॥१११ प्राणांस्त्यजति यो विप्रो मां प्रपन्नोऽप्यनाशकम् । स बालार्कप्रकाशेन बजेद्यानेन तत्फलम् ॥११२ प्रविष्टोऽन्तर्जले यस्तु प्राणांस्त्यजति मानवः । सोममण्डलकल्पेन याति यानेन तत्पथम् ॥११३ स्वशरीरं हि गृध्राणां मन्जनाय प्रयच्छति । स याति रथमुख्येन काञ्चनेन यमालयम् ॥११४ गोकृते स्त्रीकृते चैव तयापि प्रकृतेपि च । ते यान्त्यमरकन्याभिः सेव्यमानो रविप्रभः । ये यजन्ति द्विजश्रेष्ठाः क्रतुभिभूरिदक्षिणैः ॥११५ हंससारसयुक्तेन याति यानेन तत्पथम्। परपीडामकृत्वैव भृत्यान् विभ्रति ये नराः॥११६ तत्पथं ते सुखं यान्ति विमानैः काञ्चनोज्वलैः। ये समास्थाय भूतेषु जीवानामभयप्रदाः ॥११७ क्रोधलोभविनिर्मुक्ता निगृहीतेन्द्रियास्तथा। पूर्णचन्द्रप्रतीकाशै विमानस्ते महाप्रभाः॥११८ . .
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy