________________
१९५२ वृद्धगौतमस्मृतिः।
[पञ्चमो. वैशम्पायन उवाच । तच्छु त्वा वचनं विष्णोः पपात भुवि पाण्डवः । निःसंज्ञोऽभूद्भयत्रस्तोनिश्चेष्टो भयविह्वलः॥५६ ततो लब्ध्वा शनैः संज्ञा समाश्वस्तोऽच्युतेन सः। नेत्रे प्रक्षाल्य तोयेन भूयः केशव मब्रवीत् ॥६०
युधिष्ठिर उवाच । भीतोऽस्म्यहं महादेव ! श्रुत्वा वाक्यस्य विस्तरम् । केन दानेन तं मागं तरन्ति पुरुषाः सुखम् ॥६१
श्रीभगवानुवाच । इह ये धार्मिका लोके जीवघातकवर्जिताः। गुरुशुश्रूषया युक्ता देवब्राह्मणपूजकाः ॥६२ अस्मान्मानुष्यलोकान्ते ससहायाः सबान्धवाः । यमध्वानन्नु ते यान्ति यथावत्तु निबोध मे ॥६३ ब्राह्मणेभ्यः पूदानानि नानारूपाणि पाण्डव !। ये प्रयच्छन्ति विद्वद्भ्य से मुख्या यान्ति तत्पदम् ॥६४ अन्नच ये प्रयच्छन्ति ब्राह्मणेभ्यः सुसंस्कृतम् । श्रोत्रियेभ्यो विशेषेण भक्त्या परमया युताः ।।६५ ते विमान महात्मानो यान्ति चित्रै र्यमालयम् । सेव्यमाना वरस्त्रीभि देवसझै महापथे ॥६६ ये तु नित्यं प्रभाते प्रिय मकिल्मिषं वचः । ते च यान्ति महालाभै विमान तैर्यमालयम् ।।६७