SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] शुभाशुभकर्मकतृणां प्राणिनां यमयातनावर्णनम् । १६५१ पाषण्डै रुल्मकैदण्डैः काष्ठयातैनिरीश्वरैः । हन्यमानैः क्षताकीर्णै गन्तव्यं यमसादनम् ।।४८ ये ब्रह्मस्वं हरन्तीह नरा नाकनिपातिनम् । आक्रोशयन्ति वा नित्यमाहरन्ति च ये द्विजान् ।।४६ शुष्ककर्णा निबध्यन्ते छिन्नजिह्वाक्षिनासिकाः। पूयशोणितदूर्गन्धैर्भक्ष्यमाणाश्च जम्बुकैः ।।५० चण्डालै निघृणैश्चण्डै भक्ष्यमाणाः समन्ततः । क्रोशन्तः करुणं घोरं गच्छन्ति यमसादनम् ॥५१ तत्रैव पतिताः पापाः विष्ठापूयेष्वनेकशः । मजन्ते वर्षकोटीस्तु क्लिश्यन्ते वेदनान्विताः॥५२ ततश्च मुक्ताः कालेन लोके चास्मिन्नराधमाः । विष्ठाक्रिमित्वं गच्छन्ति पतन्ति च ततोऽर्णवे ॥५३ विद्यमानधनै यस्तु लोभदम्भाहतान्वितैः। श्रोत्रियेभ्यो न दत्तानि धनानि बहुधा नृप ! ॥४ श्रीपा पाशनिबद्धास्ते हन्यमानाश्च राक्षसः । क्षुत्पिपासाश्रमार्तास्तु यान्ति प्रेतपुरन्नराः ।।५५ अदत्तदाना गच्छन्ति शुष्ककृर्णास्यतालुकाः । अन्नं पानीयसहितं प्रार्थयन्तः पुनः पुनः ।।५६ श्वासै बुभुक्षातृष्णा" गन्तुं नैवाद्यशक्नुमम् । ममान्ते दीयतां स्वामिन् ! पानीयं दीयतामिति ।।५७ इति ब्रुवन्तस्तेदूताः प्राप्नुवन्ति यमालयम् ।।५८
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy