________________
ऽध्यायः ] जीवस्य शुभाशुभकर्मणां फलवर्णनम्। १९४७
अनुबद्धस्य तैः पाशनीयमानस्य दारुणैः । मृत्युदूतै दुराधर्षे श्चौर घोरपराक्रमैः ।।५ बद्धस्य क्षिप्यमाणस्य जनस्य च यमाज्ञया । पुण्यं पापं कथन्तिष्ठेत् सुखदुःखमशेषतः ॥६ दुराधर्षीयते वा मानुषै स्तैः कथं पुनः । किं वा तत्र महादेवाः कर्म कुवन्ति मानवाः ॥७ कथं धर्मरता यान्ति देवता द्विजपूजकाः । कथं वा प्रेतकर्माणो धर्म प्रेतपुरं नराः ॥८ किं रूपं किं प्रदानं वा वर्णः को वास्य केशव !। जीवस्य क्रोशतो नित्यं यमलोकं ब्रवीषि मे ॥६
श्रीभगवानुवाच । शृणु राजन्यथातत्वं यमात्थ [यच्चपृच्छसि यत्प्रयच्छसि । तत्राहं कथयिष्यामि मद्भक्तस्य नरेश्वर ! ॥१० षडशीतिसहस्राणि योजनानां शतानि च । मानुषस्य च लोकस्य यमलोकस्य चान्तरम् ॥११ न तत्र वृक्षछाया च न तटाकं सरोहि वा। न वाप्यो दीर्घिका वापि न कूपं वा युधिष्ठिर ! ॥१२ न मण्डपं सभा वाऽपि न प्रभा न निवेशनम् । न पर्वतो नदी वाऽपि न भूमेविवरं कचित् ॥१३ न ग्रामो नाश्रमोवाऽपि नोद्यानं काननानि च । न किञ्चिद्विश्रमस्थानं पथि तस्मिन्युधिष्ठिर ! ॥१४