________________
१६४६ वृद्धगौतमस्मृतिः। [पञ्चमो
तच्छु,त्वा वै स्तुतश्चैव भवामि च युधिष्ठिर ! ॥५४ सञ्जयन्ति च ये विप्रान् क्रोधयन्ति च भारत ! ।
आकृष्टस्तर्जितश्चाहं तैर्भवामि न संशयः ॥५५ यश्चन्दनैश्चागुरुधूपदीपैरभ्यर्च्य यत्काष्ठमधूम मया॑त् । तेनार्चितो नैव भवामि सद्यो विप्रार्चनादर्चितोऽहं भवामि ५६ विप्रप्रसादाद्धरणीधरोऽहं विप्रप्रसादादसुराञ्जयामि । विप्रप्रसादाच्च सदक्षिणोऽहं विप्रप्रसादादजितोऽहमस्मि ॥५७
इति गौतमीये श्रीवैष्णवधर्मशास्त्र चतुर्थोऽध्यायः ।
पञ्चमोऽध्यायः। अथ जीवस्य शुभाशुभकर्मणां फलवर्णनम् ।
युधिष्ठिर उवाच । देव ! देवेश ! दत्यघ्न ! परं कौतुहलं हि मे। एतत्कथय सर्वज्ञ ! त्वद्भक्तस्य ममाच्युत ! ॥१ मानुष्यस्य च लोकस्य यमलोकस्य चान्तरे। कीदृशं किं प्रमाण वा किमधिष्ठानमेव च ॥२ तरन्ते मानवाः देवाः केनोपायेन मानवाः । क वास्थिमांसनिर्मुक्ते पञ्चभूतविवर्जिते ॥३ कथयस्व महादेव ! सुखदुःख मशेषतः। जीवस्य यमलोके तु कर्मभिश्च शुभाशुभैः ॥४