________________
१९४४
वृद्धगौतमस्मृतिः। चतुर्थो
युधिष्ठिर उवाच । त्रिलोकनाथ ! भो कृष्ण ! सर्वभूतात्मको ह्यसि । नानायोगपरश्रेष्ठ ! तुष्यसे केन कर्मणा ॥३३
श्रीभगवानुवाच । यदि भारसहस्रन्तु गुग्गुल्यादि प्रधूपयेत् । करोषि च नमस्कार मुपहारञ्च कारयेत् ॥३४ पूजयेत् स्तुतिभिर्माश्च ऋग्यजुः सामतस्तथा । न च तुष्यन्ति ते विप्रा नाहन्तुष्यामि भारत !॥३५ ब्राह्मणे पूजिते नित्यं पूजितोऽस्मि न संशयः । आतुष्टेचाहमाकृष्योभवामि भरतर्षभ ! ॥३६ परमाधिगतिस्तेषां पूजयन्ति च मां हि ते । यदहं द्विजरूपेण वसामि वसुधातले ॥३७ यस्तान पूजयति प्राज्ञो मद्गतेनान्तरात्मना। तमहस्वेन रूपेण पश्यामि नरपुङ्गव ! ॥३८ काणाः कुब्जा वामनाश्च दरिद्रा व्याधितास्तथा । नावमान्या द्विजाः प्राज्ञैर्मम रूपा हि ते द्विजाः ॥३६ ये तेऽपि सागरान्तायां पृथिव्यां द्विजसत्तमाः। मम रूपेषु तेष्वेव मचिंतेष्वचितो भवान् ॥४० बहवस्तु न जानन्ति नरा ज्ञानवहिष्कृताः। यथाहं द्विजरूपेण वसामि वसुधातले ॥४१ अवमन्यन्ति ये विप्रान्विकर्मापादयन्ति च । प्रेषयन्ते च सततं सुभ्र णाङ्कारयन्ति च ॥४२