________________
१६४२ वृद्धगौतमस्मृतिः।
[तृतीयो. अशुभं तद्भवेद्वीजं शुद्धां योनिनचाहति। दूषयत्येव तां वाणीं शृणुध्वं च हविर्यथा ॥१२ गुर्वीयोनौ पतत् वीजं हाहाशब्दो द्विजन्मनाम् । कुर्यात् पुरीषगर्तेषु पतितासि मतिः कुतः ॥१३ मामधः पातयेदेव कामात्मा पापमोहितः। अधोगतिं व्रजेत् क्षिप्र मिति शप्त्वा पतेत्तु यत् ॥१४ आत्मा हि शुक्रमुद्दिष्टं दैवतं परमं महत् । तस्मात्सर्वप्रयत्नेन निरुध्यात् शुक्रमात्मनः ॥१५ आयुस्तेजो बलं वीर्य प्रज्ञा श्रीश्च महायशः । पुण्यश्च मत्प्रियत्वञ्च हन्यते ब्रह्मचर्यया ॥१६ अविप्लुतब्रह्मचर्यहस्थाश्रममाश्रितैः । पश्चयज्ञपरधर्मः स्थाप्यते पृथिवीतले ॥१७ सायं प्रातस्तु ये सन्ध्यां सम्यक् नित्यमुपासते । नावं वेदमधिकृत्य तारयन्ति तरन्ति च ॥१८ यो जपेत् पावनी देवीं गायत्री वेदमातरम् । न सीदेत् प्रत्यगृह्णीत पृथिवीञ्च ससागराम् ॥१६ ये च स्युः संस्थिताः केचित् गृहे सूर्योदयादिव । ते चास्य सौम्या जायन्ते शिवाशुभकरास्तथा ॥२० यत्र यत्रास्थिताश्चैव दारुणाः पिशिताशनाः। घोररूपा महाकाया वीजं न घोषयन्ति च ॥२१ पुनन्तीह पृथिव्यां हि चीर्णा स्तत्वव्रता नराः। ये चीर्णा व्रतवेदा ये विकर्मपथमाश्रिताः ॥२२