________________
ऽध्यायः] विप्राणां गुणदोषवर्णनम् । १६४१
युधिष्ठिर उवाच । द्विजयोनिविशुद्धानां लक्षणानि वदस्व मे। बीजदोषेण लोके च जायते च कथन्तराम् ।।३ आचारदोषं देवेश ! वक्तुमर्हस्यशेषतः। ब्राह्मणानां विशेषश्च गुणदोषौ च केशव !॥४ चातुर्वर्ण्यस्य कृत्स्नस्य वर्तमानाः प्रतिग्रहे। केन विप्रा विशेषेण तरन्ते तारयन्ति च ॥ एतत्कथय देवेश ! त्वद्भक्तस्य नमोऽस्तुते ॥५
श्रीभगवानुवाच । शृणु राजन्यथातत्वं वीजयोनिशुभाशुभम् । येन तिष्ठति लोकोऽयं विनश्यति च पाण्डव ॥६ अवस्थितब्रह्मचर्योयं च विप्रो यथाविधि । स द्विजानामविज्ञेय स्तस्य बीजं शुभम्भवेत् ।।७ कन्या चाक्षतयोनिः स्यात् कुलीना पितृमातृतः। ब्राह्मादिषु विवाहेषु परिणीता यथाविधि ॥८ सा प्रशस्ता वरारोहा शुद्धयोनिः प्रशस्यते । कानीनश्च सहोढश्च तावुभौ कुण्डगोलको॥ आरूढवनितो ज्ञातः पतितस्यापि यः सुतः। षडेते विप्र चण्डाला निषिद्धाः श्वपचादपि ॥१० यो यत्र तत्र वा रेतः सिक्ता गुर्वीषु वाचयेत्। कामचारी स पापात्मा वीजं तस्याशुभम्भवेत् ॥११