SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] दानप्रकरणे विप्रप्रशंसावर्णनम् । १६३६ भुक्तेषु तेषु स्ववशे तस्य धर्म ददाति च । अनुशंस्यात् ब्राह्मणस्य भुञ्जतेऽपीतरे जनाः॥७४ तस्मात्ते नावमन्तव्या मद्भक्ताश्च द्विजाः सदा । आरण्यकोपनिषदि ये तु पश्यन्ति मां द्विजाः ॥७५ कलावस्थान द्विजान् सर्वान् प्रयत्नेन प्रपूजयेत् । स्वगृहे वा प्रवासे वा दिवा रात्रौ तथैव च ॥७६ वृद्धाश्च ब्राह्मणाः पूज्या मद्भक्ता ये च पाण्डव !। नास्ति विप्रसमो देवो नास्ति विप्रसमो गुरुः ॥७७ नास्ति विप्रात् परो बन्धु र्नास्ति विप्रात् परोनिधिः । नास्ति विप्रात् परं तीर्थ न पुण्यं ब्राह्मणात् परम् ॥७८ नास्ति विप्रात् परो धर्मों नास्ति विप्रात् परा गतिः। पापकर्मसमाक्षिप्तं पतन्तं नरके नरम् ॥७६ त्रायते दानमप्येकं पात्रभूते कृते द्विजे। बाला हिताग्नयो ये च शान्ताः स्युन्निवर्जिताः ॥८० मामर्चयन्ति सद्भक्तास्तेभ्यो दत्तं महाफलम् । प्रदानः पूजितो विप्रो वन्दितो वापि कृत्लशः॥८१ संभावितो वा विप्रो वै मद्भक्तो दिवमुन्नयेत् । ये पठन्ति नमस्यन्ति ध्यायन्ति पुरुषास्तुतम् ।।८२ तं श्रुत्वा वाथवा दृष्ट्वा नरैः पापात् प्रमुच्यते । मद्भक्ता मद्गतप्राणा मद्भक्त्या मत्परायणाः ।।८३ वीजयोनिविशुद्धा ये श्रोत्रियाः संयतेन्द्रियाः। श्रुत्वान्नविरला नित्यन्ते पुनन्तीह दर्शनात् ॥८४
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy