________________
१९३८
वृद्धगौतमस्मृतिः। [तृतीयोस्वल्पपापेन निन्दित्वा परीवादात् खरो भवेत् । परिभाय कृमिर्भवति कीटो भवति मस्करी ॥६३ दुवत्ता वा सुवृत्ता वा प्राकृता वा सुसंस्कृताः । ब्राह्मणा नावमन्तव्या भस्मच्छन्ना इवाग्नयः॥६४ क्षत्रियव्चैव स पञ्चब्राह्मणञ्च बहुश्रुतम् । नावमन्येत मेधावी कृशानपि कदाचन ॥६५ इह तश्चापि पुरुषं निर्दहेदवमानितम् । तस्मादेतं प्रयत्नेन नावमन्येत बुद्धिमान् ॥६६ यथा सर्वास्ववस्थासु पावको दैवतं महत् । तथा सर्वास्ववस्थासु ब्राह्मणो देवतं महत् ॥६७ व्यङ्गान् काणांश्च कुब्जांश्च वामनान् गास्तथैव च । स निर्वदेदयुक्तञ्च मिश्रिता वेदपारगैः ॥६८ मन्यून्नोत्पादयेत्तेषां नचानिष्टं समाचरेत् । मन्युपहरणा विप्रा न विप्राः शस्त्रपाणयः॥६६ मन्युना स्यन्ति ते शत्रून् वज्रणेन्द्र इवासुरान् । ब्राह्मणो हि महदेवं कथितं वेदपारगैः ॥७० द्विजाश्च सर्वभूताना धर्मकोशस्य गुपये। किं पुनस्ते च कौन्तेय ! स नित्यमुपासते ॥७१ यस्यास्येन सदाश्नन्ति हव्यानि विविधानि च । तरामस्तान् द्विजान् वै किमभूतमधिकन्ततः ॥७२ उत्पत्तिरेव विप्रस्य मूर्तिधर्मस्य शाश्वती। स हि धर्मार्थमुत्पन्नो ब्रह्मभूयाय कल्पते ॥७३