________________
अध्यायः] दानप्रकरणे विप्रप्रशंसा वर्णनम् । १६३७
प्रयत्नेन हि दातव्यो महादानमयो निधिः । यस्तु दाता प्रयच्छेत सहस्रस्यावलम्बनम् ॥५३ भुक्तशेषस्य भक्तस्य तं निमन्त्रय भारत !। अमन्त्रन्तु निराशास्ते न कर्तव्या हि पाण्डव ! ॥५४ कुलानि सन्ततिः प्राणा नैषामाशा हता भवेत् । मद्भक्ता ये नरश्रेष्ठ ! मद्गता मत्परायणाः । मद्याजिनो मनियमास्तान् प्रयत्नेन पूजयेत् ।।५५ तेषान्तु पावनायाह नित्यमेव युधिष्ठिर !। उभे सर्वे प्रतिष्ठामि व्यसनं तच्च सुव्रतम् ॥५६ तस्मादृष्टाक्षरं मन्त्रं मद्भक्त वीतकल्मषैः । सन्ध्याकालेष्वकालेषु जप्तव्यश्चात्मशुद्धये ॥५७ अन्येषामपि विप्राणां किल्विषं हि प्रणश्यति । उभे सर्वं च पुरुषा स्तस्माद्विप्रो विशुद्धये ॥५८ देवे श्राद्धे च विप्रः सन् विधियुक्तो जुगुप्सितः। जुगुप्सितन्तु तत् श्राद्धं दहत्यमिरिवेन्धनम् ।।५६ भारतं मानवोधर्मः साङ्गवेदश्चिकित्सितम् । अज्ञाविद्धानि चत्वारि न हन्तव्यानि हेतुभिः॥६० न ब्राह्मणान् परीक्षेत दैवे कर्मणि मन्त्रवित् । महान् भवेत् परीवादो ब्राह्मणानां परीक्षणे ॥६१ ब्राह्मणानां परीवादं यः करोति नराधमः । सहसैव शुनां योनि स गच्छेत् ब्रह्मदूषकः ॥६२