SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] त्रिविधदानप्रकरणवर्णनम् । १९३५ श्रद्धायुक्तः शुचिः स्नातः प्रसन्नोभयमानसः। ददाति दानं यो मयों यौवने स तदश्नुते ॥३४ स्वयं नीत्वा तु यद्दानं भच्या पात्रे प्रदीयते । तत् सार्वकामिकं विद्धि दान मामरणान्तिकम् ।।३५ सात्विकं राजसञ्चैव तामसञ्च युधिष्ठिर !। दानं दानफलञ्चैव गतिथ त्रिविधां शृणु ॥३६ दानं दातव्यमित्येव मतिं कृत्वा द्विजाय वै। उपकारवियुक्ताय दत्तं यत्तद्धि सात्विकम् ॥३७ श्रोत्रियाय दरिद्राय बहुभृत्याय पाण्डव !। दीयते यत्प्रणष्टाय तत् सात्विकमुदाहृतम् ॥३८ वेदाक्षरविहीनाय यत्तु पूर्वोपकारिणे । समृद्धाय च यहानं तद्राजसमुदाहृतम् ॥३६ सम्वन्धिने च यद्दानं व्रताय चैव पाण्डव !। लाभादिभिरपात्राय तद्राजसमुदाहृतम् ॥४० . वैश्वदेवविहीनाय यदानं श्रोत्रियाय च । दीयते तस्करायापि तहानं तामसं स्मृतम् ॥४१ सरोषमवधूतश्च शोकयुक्तमवज्ञया । सेवकाय च यहत्तं तद्दानं तामसं स्मृतम् ।।४२ देवाः पितृगणाश्चैव जनयश्चाग्नयस्तथा । सात्विकं दानमश्नन्ति तुष्यन्ति च नरेश्वर ! ॥४३ अथवा देत्यसङ्घाश्च गृहयज्ञांश्च राक्षसाः । राजसं दानमश्नन्ति वर्जितं पितृदेवतः।
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy