________________
ऽध्यायः
दानप्रकरणवर्णनम्। १३ पितरं मातरच्चैव उपाध्यायं गुरु तथा। मातुलं मातुलानीश्च योहि हन्याच्छपेत्तथा ॥१५ ब्राह्मणाश्चैव ये भूत्वा सन्ध्योपासनवर्जिताः। निर्बाह्मयो निःस्वधश्चैव यश्च गुवनभुक् द्विजः। मम वा शङ्करस्यापि ब्रह्मणो वा युधिष्ठिर ! ॥१६ पूर्वाहबाह्मणानान्तु ये न भक्ता नराधिप !। वृथा जन्मन्यथतेषां पापानां विद्धि पाण्डव ! ॥१७ अश्रद्धया च यहत्तं चौर्यणावर्जितन्तु यत् । अभिशस्ताहृतं यत्तु यहानं पतिते द्विजे ॥१८ अब्रह्माभिहितं यत्तु यहत्तं सर्वयाचके । प्रात्ते तु यद्धि तहान मारूढपतिते च यत् ॥१६ यत् प्रामयाचकर्णान्तं यत्कृतघ्नहृतस्तथा । उपपातकिने दत्तं वेदविक्रयिणे च यत् ॥२० स्त्रीजीविते च यदत्तं यश्च देवलकाय च । देवपूर्वाशिने दत्तं नित्यकर्म न कारिणे ॥२१ रङ्गोपजीवने दत्तं यच्च मांसापजीविने । सेवकाय च यद्दत्तं यहत्तं ब्राह्मणब्रुवे ।।२२ अदेशिने च यदत्तं दत्तं वाधुषिकाय च । यदनाचारिणे दत्तं यच्च दत्तं वृथाशिने ॥२३ असभ्योपासिने दत्तं यच्च प्रामनिवासिने। यन्मिथ्यालिङ्गिने दत्तं दत्तं सर्वाशिने च यत् ॥२४