________________
ऽध्यायः] दानप्रकरणवर्णनम्।
१६३१ तस्मात्सर्वप्रयत्नेन न पापं प्राहयेद्भयम्।। तस्मादेतत्प्रयत्नेन कीर्तितमक्षयं महत् । तस्मात् सङ्कीर्तयेत्पापं नित्यधर्मश्च ग्राहयेत् ॥४० इति गौतमीये श्रीवैष्णवधर्मशास्त्रे द्वितीयोऽध्यायः ।
तृतीयोऽध्यायः। अथ दानप्रकरणवर्णनम् ।
वैशम्पायन उवाच । एवं श्रुत्वा वचस्तस्य धर्मपुत्रोऽच्युतस्य तु। पप्रच्छ पुनरप्यन्यान् धर्मान् धर्मात्मजोहरिः॥१
युधिष्ठिर उवाच । वृथा चरति जन्मानि वृथा दानानि वा कृतिः। वृथा च जीवितं क्षेमो नराणां पुरुषोत्तम ! ॥२ कीदृशासु व्यवस्थासु दानं देयं जनार्दन !। इह लोकेच भवति पुरुषः पुरुषोत्तम !॥३ गर्भस्थ कर्म चायाति किं बाल्ये चापि केशव ! यौवनत्वेऽपि किं कृष्ण ! वृद्धत्वेचापि किं भवेत् ॥४ सात्विकं कीदृशं दानं राजसं कीदृशं भवेत् । तामसं कीदृशं देव ! तमधीष्यति किं प्रभो!॥५