________________
१६३०
वृद्धगौतमस्मृतिः ।
एवं धर्मात्परं नास्ति महत् संसर्गसाक्षिणः । स स्वधर्मात्परं किञ्चित् पापकर्मव्यपोहनम् ॥३२ तस्माद्धर्मः सदा कार्यो मानुष्यं प्राप्य दुर्लभम् ॥
युधिष्ठिर उवाच ।
भगवन् ! देव देवेश वदस्व मधुसूदन ! | शुभस्याप्यशुभस्यापि क्षयवृद्धीर्यथाक्रमम् ॥ ३३
[ द्वितीया
श्रीभगवानुवाच ।
शृणु पाण्डव ! तत्सर्वं धर्मं सूक्ष्मं सनातनम् । दुर्विज्ञेयं प्रमोदन्ते यं ज्ञात्वा ते महाजनाः । यथैव शीतमुदकमुष्णेन बहुधा व्रतम् ॥३४ भवेत्तु तत्क्षणादुष्णं शीतत्वथ्य विनश्यति । यथोष्णं वा भवेदब्दं शीतेनापि यथाव्रतम् ॥ ३५ शीतत्वच्च भवेत्सवं मुष्णत्वभ्व विनश्यति । एवन्तु यद्भवेत् भूमन् ! सुकृतं वाथ दुष्कृतम् ॥३६ तदल्पं क्षपयेद्विप्रं नात्र कार्या विचारणा । समत्वे सति राजेन्द्र ! तयोः सुकृतपापयोः ||३७ गृहीतस्य भवेदृद्धिः कीर्तिर्यस्य भवेत् स्वयम् । ख्यापनेन तु तापेन प्रायः पापं प्रणश्यति ॥ ३८ तथा कृतस्तु राजेन्द्र ! धर्मोनश्यति भारत। । गृहीतौ तावुभौ सम्यक् वृद्धियातौ न संशयः ॥ ३६