________________
१६२६.
ऽध्यायः] चातुर्वर्ण्यधर्मवर्णनम् ।
सम्यक् प्रजाः पालयिता स्वधर्मनिरतः सदा । यज्ञदानरतो धीरः स्वधर्मनिरतः शुचिः॥२२ शास्त्रानुकारी तत्त्वज्ञः प्रजाकार्यपरायणः । विप्रेभ्यः कामदो नित्यं भृत्यानां भरणे रतः ॥२३ सत्यसन्धः शुचिनित्यलोभदम्भविवर्जितः। क्षत्रिय उत्तमां याति गतिं देवनिषेविताम् ।।२४ तत्र दिव्याप्सरोभिस्तु गन्धर्वैश्च प्रयत्नतः। सेव्यमानो महातेजाः क्रियते शक्रपूजितः ॥२५ चतुर्युगानि वै त्रिंशत् मादित्वा तत्र देववत् । इहैव मानुषे लोके चतुर्वेदी द्विजो भवेत् ॥२६ कृषिगोपालनिरतः स्वधर्मावेक्षणेरतः॥ वणिक् स्वकर्म वाप्नोति पूज्यमानोऽप्सरोगणैः। चतुर्युगानि वै त्रिंशत् ऋद्धि द्वादश पञ्च च ।।२७ इह मानुष्यके राजन् ! राजा भवति वीर्यवान् । त्रयाणामपि वर्णानां शृण्विष्टनिरतः सदा ।।२८ बिशेषेण तु विप्राणां दासवद्यस्तु तिष्ठति । अयाचितप्रदाता च सत्यशौचसमन्वितः ॥२६ गुरुदेवेषु निरतः परदारविवर्जितः । परपीडामकृत्वैव भृत्यवर्ग बिभर्ति यः। मृतोऽपि स्वर्गमाप्नोति जीवाना मभयप्रदम् ।।३० स स्वर्गलोके ऋधित्वा वर्षकाटीमहातपाः। इह मानुष्यलोके वै वैश्यो धनपतिर्भवेत् ॥३१