________________
१६२८ वृद्धगौतमस्मृतिः। [द्वितीयो
वैश्यस्य कीदृशी देव ! गतिः शूद्रस्य कीदृशी। कथं गच्छेत पापेन ब्राह्मणस्तु यमालये ॥१२ क्षत्रियोवाथ शूद्रोवा वैश्यो वा गच्छते कथम् । एतत्कथय देवेश ! लोकनाथ ! नमोऽस्तु ते ॥१३
वैशम्पायन उवाच । स पृष्टः केशवश्चैव धर्मपुत्रेण धीमता। उवाच संसारगतिं चतुर्वर्णस्य कर्मजाम् ॥१४
__ श्रीभगवानुवाच। शृणु वर्णक्रमेणैव धर्मान् धर्मभृताम्वर !। नास्ति किञ्चिन्नरश्रेष्ठ ! ब्राह्मणस्य तु विक्रयः ॥१५ ये तु तासु सदा ध्यात्वा सन्ध्यां ये च उपासते। यैश्च पूर्णाहुतिः प्राप्ता विधिवजुहते च ये ॥१६ वैश्वदेवाश्च ये कुर्युः पूजयन्त्यतिथींश्च ये। नित्यस्वाध्यायशीलाश्च पञ्चयज्ञपरायणाः ॥१७ सायं प्रातहुताशाश्च गुर्वभोजनवर्जिताः । दम्भाचारविमुक्ताश्च स्वदारनिरताः सदा ॥१८ पञ्चयज्ञरताश्चैव अग्निहोत्रमुपासते। ते नमस्कृतकर्माणो ब्रह्मलोकं व्रजन्ति ते ॥१६ ब्रह्मलोके ततः कामं गन्धर्वै ब्रह्मगायकैः । उपगीयमानाः प्रिय ! तैः पूज्यमानाः स्वयम्भुवा ॥२० ब्रह्मलोके प्रमोदन्ते यावद्भतस्य विल्लवम् । क्षत्रियोऽपि स्थितो राज्ये स्वधर्म परिपालयन् ॥२१