________________
१९२७
भ्यायः ] धर्मशास्त्र (धर्म) प्रशंसावर्णनम्।
- श्रीभगवानुवाच । शृणु पाण्डव ! यत्नेन पवित्रं पावनं परम् । कथ्यमानं मया पुण्यं धर्मशास्त्रं महाफलम् ।।२ यच्छृणोति शुचिर्भूत्वा एकचित्तस्तपोधनः । धर्म यशस्य मायुष्यं धर्मात्मानं युधिष्ठिर ! ॥३ श्रद्दधानस्य तस्येह यत्पाप्मा पूर्वसश्चितः । विनश्यत्याशु तत्सर्वमभक्तस्य विशेषतः॥४ एवं श्रुत्वा वचः पुण्यं वाक्यं केशवभागिनम् । प्रणष्टमनसो भूत्वा चिन्तयन्त्युत्तमं परम् ॥५ देवा ब्रह्मर्षयः सर्वे गन्धर्वाप्सरसस्तथा । भूताक्षयक्षग्रहा गुह्यका भुजगास्तथा ॥६ बालखिल्या महात्मानो योगिनस्तत्वदर्शिनः । तथा भागवताश्चापि पञ्चकालमुपासकाः ॥७ कौतुहलसमाविष्टाः प्रणष्टाः परमर्षयः । श्रोतुकामः परं गुह्यं वैष्णवं धर्मशासनम् ॥८ हृदि कर्तुश्च तद्वाक्यं प्रणम्य शिशुना तदा । ततस्ते वासुदेवेन दृष्टाः सौम्येन चक्षुषा ॥ विमुक्तपापानालोक्य प्रणम्य शिरसा हरिम् । पप्रच्छ केशवं धर्म धर्मपुत्रः प्रतापवान् ॥१०
युधिष्ठिर उवाच । ततस्ते वासुदेवेन दृष्टाः सौम्येन मानुषाः। कीदृशी ब्राह्मणस्याथ कीडशी क्षत्रियस्य वै॥११ १२१