SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] भगवत्स्वरूपवर्णनम्। १६२५ महान्तो मे गुणाः पञ्च महाभूतेषु पञ्चसु । तन्मात्रेसंस्थितः सोऽहं पृथिव्यां पश्वधा स्मृतः ॥५६ अहं सहस्रशीर्षस्तु सहस्रचरणेक्षणः । सहस्रबाहूदरडक्सहस्राक्षः सहस्रपात्॥५७ स्थितोऽस्मि सर्वतः सद्यो ह्यद्य तिष्ठेद्दशाङ्गुलम् । सर्वभूतात्मभूतः सन् सर्वव्यापी ततो अहम् ।।५८ अचिन्त्योहानन्तोऽहमचलोऽहमजो यहम् । अनाद्योहमप्रमेयोऽहमव्ययोवेद्योऽहमयम् ॥५६ निर्गुणोऽहनिर्गन्धात्मा नित्योऽहं निर्ममोऽपि च । निर्द्वन्द्वो निर्विकारोऽहं निधानचामृतस्य च ॥६० मृतस्य तस्य चाहश्च स्वाहाकारो नराधिप !। तेजसा तपसा चाहं भूतप्रामेष्वनव्ययः ॥६१ स्नेहपाशगणैबध्वा धारयाम्यात्ममायया । चतुराश्रमवर्णोऽहं चातुर्होत्रफलाशनः । चतुर्मतिश्चतुर्वृह श्चतुराश्रमभाजनम् ॥६२ संहृत्याहं जगत्सवं कृत्वाहं गर्भमात्मनः। शयामि दिव्ययोगेन प्रलयेषु युधिष्ठिर !॥६३ सहस्रयुगपर्यन्ता ब्राह्मी रात्रि महार्णवे । स्थित्वा सृजामि भूतानि जङ्गमानि स्थिराणि च ॥६४ कल्पे कल्पे च भूतानि संहरामि सृजामि च । न च मा तानि जानन्ति मायया मोहितानि हि ॥६५
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy