________________
१६२४
वृद्धगौतमस्मृतिः। [प्रथमोमद्भक्तिः क्रियते तात ! मनुष्याणां न संशयः। यच्च रूप्यपरं पुण्यं तैस्तदचलवत् ध्र वम् ।।४५ न दृश्यते तथा देवैर्मद्भक्तैः क्रुश्यते यथा। जपरं यच्च मे रूपं प्राणभावेषु नाश्यते ॥४६ तदद्य ते ह सर्वार्थः सर्वभूतैश्च पाण्डव !। कल्पकोटिसहस्रेषु व्यतीतेष्वागतेषु च ॥४७ दर्शयामीति यद्रूपं तत्प्रपश्यन्ति मे सुराः । स्थित्युत्पत्तिलयकर्तारं यो मां ज्ञात्वा प्रपद्यते ॥४८ अनुगृह्णाम्यहं तस्य संसारान्मोचयामि च । अहमादीति भूतानां सृष्टा ब्रह्मादयोमया ॥४६ प्रकृति स्वामवष्टभ्य जगत्सवं सृजाम्यहम् । ततो मूलोऽहमव्यक्तो रजोमध्ये प्रतिष्ठितम् ॥५० ऊवं सत्त्वविशालोऽहं ब्रह्मादि स्तम्बसंस्थितम् । मूर्धानं मे दिवं विद्धि चन्द्रादित्यौ च लोचने ॥५१ देवादिब्राह्मणा वक्त्रं मरुतः श्वसनञ्च मे। दिशो में बाहवश्वाष्टौ नक्षत्राणि विभूषणम् ॥५२ अन्तरिक्षकरं विद्धि सर्वभूतावकाशकम् । मार्गों मेघानिलाभ्यान्तु यमं सोदरमव्ययम् ॥५३ पृथिवीच वलं यद्वै द्वीपार्णा च नगैर्युतम् । सर्वसन्धारणोपेतं पादौ मम युधिष्ठिर ! ॥५४ स्थितोह्येकगुणाख्ये ह द्विगुणश्चास्मि मारुते । अगुणस्तैः स्थितोऽहं वै सलिले तु चतुर्गुणः ॥५५