________________
ऽध्यायः] धर्मोपदेशवर्णनम्।
१९२३ जन्मान्तरसहस्रेस्तु मानुषत्वं सुखी भव । तत्तवापीह यो धर्मान् न करोति स वञ्चितः ॥३४ कीटाश्चैव पुरीषस्य विरूपा व्याधितास्तथा । परद्वेष्याश्च मूर्खाश्च न तैः धर्माः कृताः पुरा ॥३५ एके दीर्घायुषः शूराः पण्डिता भोगिनस्तथा । अरोगा रूपसम्पन्ना स्तैधर्माः स्युः कृताः पुरा ॥३६ एवं धर्मः कृतः सद्यो नयते गतिमुत्तमाम् । अधमः सेव्यमानस्तु तिर्यग्योनि नयत्यसौ ॥३७ इदं रहस्यं कौन्तेय ! श्रूयतामिदमुत्तमम् । कथयिष्येपरं गुण्यं मम भक्तस्य पाण्डव ! ॥३८ इष्टस्त्वमसि मे त्यक्तुं प्रपन्नाश्चापि मां सदा । परमात्ममपि बयां किं पुनर्धर्मसंहिताम् ॥३६ इदं मे मानुषं जन्म कृतमात्मनि मायया। . धर्मसंस्थापनायैव दुष्टानां शासनाय च ॥४० मानुष्यं भावमापन्नं ये मां गृह्यं तवाज्ञया । संसरन्ति ह ते मूर्खा स्तिर्यग्योनिष्वनेकशः ॥४१ ये च मां सर्वरक्तत्वे पश्यन्ति ज्ञानचक्षुषा । मद्भक्तांस्तान् सदा युक्तान् मत्समीपं नयाम्यहम् ॥४२ मद्भक्तानान्तु मानुष्ये सर्वजन्म च पाण्डव !। अपि वा ये अभिरता मद्भक्ताः पाण्डुनन्दन ! ॥४३ मुच्यते पातकैः सर्वैः पद्मपात्रमिवाम्भसा । जन्मान्तरसहस्रेषु तपसा भावितात्मनाम् ॥४४