________________
अथ
*॥ वृद्धगौतमस्मृतिः॥*
......०००......
॥ श्रीगणेशायनमः ॥
प्रथमोऽध्यायः। अथ केशव युधिष्ठिर सम्वादवर्णनम् । अश्वमेधे पुरावृत्त केशवं केशिसूदनम् । धर्मसंशयकं दृष्टा किमपृच्छत गौतमः॥१
गौतम उवाच। पञ्चमेनापि मेधेन यदा स्नातो युधिष्ठिरः । तदा राजा नमस्कृत्य केशवं वाक्यमब्रवीत् ॥२
युधिष्ठिर उवाच । भगवन् ! वैष्णवा धर्माः किं फलं किं परायणाः । किं धर्ममधिकृत्यासीत् भवतोत्पादिता पुरा । यदि ते न मनो ग्राह्यः प्रियो वा मधुसूदन ! ॥३