________________
१६१८
गौतमस्मृतिः। [एकोनत्रिंशत्तमोस्वयमर्जितं वैद्योऽवैद्यभ्यः कामं भजेरन् । पुत्रा औरसक्षेत्रजदत्तकृत्रिममूढोत्पन्नापबिद्धा भृक्थभाजः कानीनसहोढपौनर्भवपुत्रिकापुत्रस्वयन्दत्तक्रीता गोत्रभाजश्चतुर्थांशभागिनश्चौरसाद्यभावे ब्राह्मणस्य राजन्यापुत्रो ज्येष्ठोगुणसम्पन्नस्तुल्यांशभाक् ज्येष्ठांशहीनमन्यत् राजन्या वैश्यापुत्रसमवाये स यथा ब्राह्मणीपुत्रेण क्षत्रियाञ्चत् शूद्रापुत्रोऽप्यनपत्यस्य शुश्रूषुश्चेल्लभेत वृत्तिमूलमन्तेवासविधिना सवर्णापुत्रोऽप्यन्यायवृत्तो न लभेतकेषां श्रोत्रिया ब्राह्मणस्यान पत्यस्य ऋक्थं भजेरन् राजेतरेषां जडक्लीवौ भर्त्तव्यावपत्यं जडस्य भागार्ह शूद्रापुत्रवत् प्रतिलोमासूदकयोगक्षेमकृतान्ने ध्वविभागः स्त्रीषु च संयुक्तास्वनाज्ञाते दशावरैः शिष्टरूहवद्भिरलुब्धैः प्रशस्तं कार्यम्। चत्वारश्चतुणा पारगा वेदानां प्रागुत्तमा लय आश्रमिणः पृथग्धर्मविदलय एतान् दशावरान् परिषदित्याचक्षते असम्भवे त्वेतेषामश्रोत्रियो वेदविच्छिष्टोविप्रतिपत्तौ यदाह यतोऽयमप्रभवोभूतानां हिंसानुग्रहयोगेषु धर्मिणां विशेषेण स्वर्ग लोकं धर्मविदाप्नोति ज्ञानाभिनिवेशाभ्यामिति धर्मो धर्मः। इति गौतमीये धर्मशास्त्रे एकोनत्रिंशत्तमोऽध्यायः।
समाप्ता चेयं गौतमस्मृतिः।
-: