SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ १९१६ गौतमस्मृतिः। [अष्टाविंशतितमोअष्टाविंशतितमोऽध्यायः। अथ चान्द्रायणप्रतविधिवर्णनम्। अथातश्चान्द्रायणं तस्योक्तो विधिः कृच्छ वपनं व्रतञ्चरेत् श्वोभूतां पौर्णमासीमुपवसेदाप्यायस्व सन्ते पयांसि नवोनव इति चैताभिस्तर्पणमाज्यहोमोहविषश्चानुमन्त्रणमुपस्थानं चन्द्रमसोयदेवा देवहेलनमिति चतसृभिराज्यं जुहुयाद्देव कृतस्येति चान्ते समिद्भिरों भूर्भुवः स्वस्तपः सत्यं यशः श्रीरूपं गिरोजस्तेजः पुरुषोधर्मः शिवः शिव इत्येतै सानुमन्त्रणं प्रतिमन्त्रं मनसा नमः स्वाहेति वा सर्वप्रासप्रमाणमास्यावि कारेण चरुभैक्षसक्तुकणयावकशाकपयोदधिघृतमूलफलो दकानि हवींव्युत्तरोत्तरं प्रशस्तानि पौर्णमास्यां पञ्चदश प्रासान भुक्त्वैकापचयेन परपक्षमश्नीयादमावास्यायामुपोष्य कोपचयेन पूर्वपक्षं विपरीतमेकेषाम् ।। एष चान्द्रायणोमासोमासमेतमाप्त्वा विपापो विपाप्मा सर्व मेनोहन्ति द्वितीयमाप्त्वा दशपूर्वान् दशावरानात्मानञ्चैक विशं पक्तीश्च पुनाति सम्बत्सरं चाप्त्वा चन्द्रमसः सलोकतामाप्नोति। इति गौतमीये धर्मशास्त्रेष्टाविंशतितमोऽध्यायः । ...००...
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy