________________
ऽध्यायः.]. कृच्छ्रव्रतविधिवर्णनम् ।
१६१५ नमोनमः सूर्यायादित्याय नमोनमोनीलग्रीवाय शितिकण्ठाय नमोनमः कृष्णाय पिङ्गलाय नमोनमोज्येष्ठाय श्रेष्ठाय वृद्धायेन्द्राय हरिकेशायोर्ध्वरेतसे नमोनमः सत्याय पावकाय पावकवर्णाय कामाय कामरूपिणे नमोनमो दीप्ताय दीप्तरूपिणे नमोनमस्तीक्ष्ण रूपिणे नमोनमः सौम्याय सुपुरुषाय महापुरुषाय मध्यमपुरुषायोत्तमपुरुपाय ब्रह्मचारिणे नमो नमश्चन्द्रललाटाय कृत्तिवाससे पिनाकहस्ताय नमोनम इति । एतदेवादित्योपस्थानमेता एवाज्याहुतयो द्वादशरात्रस्यान्ते चरुश्रपयित्वैताभ्यो देवताभ्यो जुहुयादग्नये स्वाहा सोमाय स्वाहाग्नीषोमाभ्यामिन्द्राग्निभ्यामिन्द्राय विश्वेभ्योदेवेभ्यो ब्रह्मणे प्रजापतते अग्नये स्विष्टिकृत इति । ततो ब्राह्मणतर्पणम् । एतेनैवातिकृच्छोव्याख्यातोयावत् सकृदाददीत तावदश्नी यादव्भक्षस्तृतीयः स कृच्छ्रातिकृच्छ्रः । प्रथमं चरित्वा शुचिः पूतः कर्मण्योभवति द्वितीयं चरित्वा यत्किञ्चिदन्यन्महापातकेभ्यः पापं कुरुते तस्मात् प्रमुच्यते तृतीयं चरित्वा सर्वस्मादेनसोमुच्यते अर्थतांस्त्रीन कृच्छ्रान् चरित्वा सर्वेषु वेदेषु स्नातो भवति सर्व देवैमा॑तो भवति यश्चैवं वेद यश्चैवं वेद । इति गौतमीये धर्मशास्त्रे सप्तविंशतितमोऽध्यायः ।