________________
१६१४
गौतमस्मृतिः। [षड्विंशतितमो..पूर्वेष्वलिङ्गाभिरप उपस्पृशेद्वारुणीभि रन्यैर्वापवित्रैः प्रतिषिद्ध
वाङ्मनसयोरपचारे व्याहृतयः संख्याताः पञ्च सर्वास्वपो वाचा मे देहश्च मादित्यश्च पुनातु स्वाहेति प्रातः रात्रिश्च मा वरुणश्च पुनात्विति सायमष्टौ वा समिधमादध्यादेवकृतस्येति हुत्वैवं सर्वस्मादेनसोमुच्यते मुच्यते ।
इति गौतमीये धर्मशास्त्रे षड्रिंशतितमोऽध्यायः ।
सप्तविंशतितमोऽध्यायः।
अथ कृच्छ्रव्रतविधिवर्णनम्। अथातः कृच्छान् व्याख्यास्यामो हविष्यान् प्रातराशान् भुक्त्वा तिस्रोरात्री श्नीयादथापरं व्यहं नक्तं भुञ्जीत अथापरं व्यहं न कञ्चन याचेदथापरं व्यहमुपवसेत्तिष्ठेदहनि रात्रावासीत क्षिप्रकामः सत्यं वदेदनायैर्ने सम्भाषेत रौरवयोधाजिने नित्यं प्रयुञ्जीतानुसवनमुदकोपस्पर्शनमापोहिष्ठेति तिसृभिः पवित्र वतीभिर्मार्जयेत् हिरण्यवर्णाः शुचयः पावका इत्यष्टाभिः । अथोदकतर्पणं ॐनमोहमाय मोहम्नाय संहमाय धुन्वते ताप साय पुनर्वसवे नमोनमोमौज्ज्यायोाय वसुविन्दाय सर्व विन्दाय नमोनमः पाराय सुपाराय महापाराय पारयिष्णवे नमोनमो रुद्राय पशुपतये महते देवाय त्र्यम्बकायैकचराधि पतये हरायशयेशानायोग्राय वज्रिणे घृणिने कपर्दिने