SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] प्रायश्चित्तवर्णनम् । १६१३ अथान्य उक्तोनियमोऽग्ने त्वं पारयेति महाव्याहृतिभिर्जुहुयात् कूष्माण्डैश्चाज्यं तद्वत एव वा ब्रह्महत्यासुरापानस्तेयगुरुतल्पेषु प्राणायामैः स्नातोऽघमर्षणं जपेत् सममश्वमेधावभृथेन सावित्री वा सहस्रकृत्व आवर्तयन् पुनीतेहैवात्मानमन्तर्जले वाघमर्षणं त्रिरावर्तयन् पापेभ्यो मुच्यते मुच्यते। इति गौतमीये धर्मशास्त्रे.पञ्चविंशतितमोऽध्यायः। षड्विंशतितमोऽध्यायः। अथ प्रायश्चित्तवर्णनम्। तदाहुः कतिधावकीर्णी प्रविशतीति मरुतः प्राणेनेन्द्र बलेन वृहस्पतिं ब्रह्मवर्चसेनाग्निमेवेतरेण सर्वेणेति सोऽमावास्यायां निश्यग्निमुपसमाधाय प्रायश्चित्ताज्याहुतीर्जुहोति कामावकीर्णोऽस्म्यवकीर्णोऽस्मि कामकामाय स्वाहा कामाभिदुग्धोस्म्यभिदुग्धोऽस्मि कामकामाय स्वाहेति समिधमाधायानु पर्युक्ष्य यज्ञवास्तु कृत्वोपस्थाय सम्मासिञ्चत्वित्येतया त्रिरुप तिष्ठेत त्रय इमे लोका एषां लोकानामभिजित्या अभिक्रान्त्या इत्येतदेवैकेषां कर्माधिकृत्ययोः पूतइव स्यात् सइत्थं जुहुया दित्थमनुमन्त्रयेद्वरोदक्षिणेति। प्रायश्चित्तमविशेषादनार्जवपैशुनप्रतिषिद्धाचारानाद्यप्राशनेषु । शूद्रायाच रेतः सित्त्वा योनौ व दोषवति कर्मण्यभिसन्धि
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy