________________
ऽध्यायः]
प्रायश्चित्तवर्णनम्।
१६११ चतुर्विंशतितमोऽध्यायः। .
अथ प्रायश्चित्तवर्णनम् । सुरापस्यबाह्मणस्योष्णामासिब्चेयुः सुरामास्ये मृतः शुद्धये दमत्या पाने पयोघृतमुदकं वायु प्रति व्यहं तप्तानि सकृच्छस्ततोऽस्य संस्कारः। मूत्रपुरीषरेतसाच प्राशने श्वापदोष्ट्रखराणाञ्चाङ्गस्य प्राम्यकुक्कुटशूकरयोश्च गन्धाघ्राणे सुरापस्य प्राणायामो घृतप्राशनञ्च पूर्वेश्च दृष्टस्य । तल्पे लोहशयने गुरुतल्पगः शयीत सूर्मी वा ज्वलन्तीं श्लिष्येलिङ्ग वा सवृषणमुत्कृत्याञ्जलावाधाय दक्षिणाप्रतीची ब्रजेदजिह्ममाशरीर निपातान्मृतः शुद्धथेत । सखीसयोनिसगोत्राशिष्यभार्यासुस्नुषायां गवि च तल्पसमोऽवकरइत्येके श्वभिरादयेद्राजा हीनवर्णगमने स्त्रियं प्रकाशं पुमांसं खादयेद्यथोक्तं वा गर्दभेनावकीर्णी निति चतुष्पथे यजते तस्याजिनमूर्ध्वबालं परिधाय लोहितपात्रः सप्त गृहान भैक्षश्चरेत् कर्माचक्षाणः सम्वत्सरेण शुद्धयेत् । रेतस्कन्दने भये रोगे स्वप्तेऽनीन्धनभैक्षचरणानि सप्तरात्रं कृत्वाज्यहोमः साभिसन्धेर्वा रेतस्याभ्यां सूर्याभ्युदिते ब्रह्मचारी तिष्ठेदहरभुञ्जानोऽभ्यस्तमिते च रात्रि जपन् सावित्रीमशुचिं दृष्टादित्यमीक्षेत प्राणायामं कृत्वाऽभोज्य- . भोजनेऽमेध्यप्राशने वा निष्पुरीषीभावस्त्रिरात्रावरमभोजनं