________________
१६१०
गौतमस्मृतिः। [त्रयोविंशतितमोअश्वमेधावभृथे वान्ययज्ञेऽप्यग्निष्टदन्तश्चोत्सृष्टश्चेद्ब्राह्मणबधे । हत्वापि आत्रेय्याञ्चैवं गर्भ चाविज्ञाते वा। ब्राह्मणस्य राजन्यवधे षडार्षिकं प्राकृतं ब्रह्मचर्य ऋषभैकसहस्राश्च गा दद्यात्। वैश्ये त्रैवार्षिकं ऋषभैकशताश्च गा दद्यात्। शूद्रे सम्बत्सरं ऋषभैकदशाश्च गा दद्यादनात्रेय्याञ्चैवं गाञ्च । वैश्यवन्मण्डूकनकुलकाकविवदहरमूषिकाश्च । हिंसासु चास्थिमतां सहस्रं हत्वानस्थिमता मनडुद्भारे च । अपि वास्थिमतामेकैकस्मिन् किञ्चित् किञ्चिद्दद्यात् । षण्डे च पलालभारः सीसमाषश्च वराहे घृतघटः सर्प लौहदण्डो ब्रह्मबन्ध्वाञ्चललनायां जीवोवैशिके न किञ्चित्तल्पान्नधनलाभबधेषु पृथग्वर्षाणि द्वे परदारे त्रीणि श्रोत्रियस्य द्रव्यलाभे चोत्सर्गो यथास्थानं वा गमयेत् प्रतिसिद्धमन्त्र संयोगे सहस्रवाक्चेदग्न्युत्सादिनिराकृत्युपपातकेषु चैवं स्त्री चातिचारिणी गुप्ता पिण्डं तु लभेत अमानुषीषु गीवजं स्वीकृते कूष्माण्डेघु तहोमो घृतहोमः। इति गौतमीये धर्मशास्त्रे त्रयोविंशतितमोऽध्यायः ।