________________
१६०८
गौतमस्मृतिः। [द्वाविंशतितमोयस्तु प्रायश्चित्तेन शुद्ध्येत्तस्मिन् शुद्ध शातकुम्भमयं पात्रं पुण्यतमाद्धदात् पूरयित्वा स्रवन्तीभ्यो वा त एनमप उपस्पर्शयेयुः। अथास्मै तत्पात्र दद्युस्तत् सम्प्रतिगृह्य जपेच्छान्ता द्यौः शान्ता पृथिवी शान्तं शिवमन्तरीक्षं योरोचनस्तमिह गृह्णामीत्येतैर्यजुभिः पावमानीभिस्तरसमन्दीभिः कुष्माण्डैश्चाज्यं जुहुयाद्धिरण्यं ब्राह्मणाय वा दद्याद्गामाचार्याय। यस्य तु प्राणान्तिकं प्रायश्चित्तं स मृतः शुद्ध्येत्तस्य सर्वाण्युदकादीनि प्रेतकर्माणि कुर्युरेतदेव शान्त्युदकं सर्वेषूपपातकेषु सर्वेषूपपातकेषु ।। इति गौतमीये धर्मशास्त्रे एकविंशतितमोऽध्यायः ।
द्वाविंशतितमोऽध्यायः। अथ निषिद्धकर्मणां जन्मान्तरे विपाक वर्णनम् ब्रह्महासुरापगुरुतल्पगमातृपितृयोनिसम्बन्धगस्तेननास्तिकनिन्दितकर्माभ्यासिपतितत्याज्यपतितत्यागिनः पतिताः पातकसंयोजकाच तैश्चाब्दं समाचरन्। द्विजातिकर्मभ्योहानिः पतनं परत्र चासिद्धिस्तामेके नरकं त्रीणि पृथमान्यनिर्देश्यानि मनुन स्त्रीष्वगुरुतल्पगः पततीत्येके भ्रूणहनि । हीनवर्णसेवायाश्च स्त्री पतति कौटसाक्ष्यं राजगामिपशुनं