________________
१६०६
गौतमस्मृतिः। । एकोनविंशोएनःसु गुरुषु गुरूणि लघुषु लघूनि कृच्छातिकृच्छू चान्द्रायणमिति सर्वप्रायश्चित्तं सर्वप्रायश्चित्तम् ।।
इनि गौतमीये धर्मशास्त्रे एकोनविंशोऽध्यायः ।
विंशतितमोऽध्यायः। अथ विविधपापानां कर्मविपाकवर्णनम् । अथ चतुःषष्टिषु यातनास्थानेषु दुःखान्यनुभूय तत्रेमानि लक्षणानि भवन्ति ब्रह्महार्द्रकुष्ठी सुरापः श्याददान्तगुरुतल्पगः पङ्गुः स्वर्णहारी कुनखी श्वित्री वस्त्रापहारी हिरण्यहारी दरी तेजोऽपहारी मण्डली स्नेहापहारी क्षयी तथा जीर्णवानन्नापहारी ज्ञानापहारी मूकः प्रतिहन्ता गुरोरपस्मारी गोनोजात्यन्धः पिशुनःपूतिनामः पूतिवक्तस्तु सूचकः शूद्रोपाध्यायः श्वपाकखपुसीसचामरविक्रयी मद्यप एकशफविक्रयी मृगव्याध कुण्डाशी भृतकश्चैलिकोवा नक्षत्री चादी नास्तिकोरङ्गोपजीव्यभक्ष्यभक्षी गण्डरी ब्रह्मापुरुषतस्कराणां देशिकः पिण्डितः षण्डोमहापथिकोगण्डिकश्चण्डाली पुक्कसी गोष्कवकीर्णी मध्वामेही धर्मपत्नीषु स्यान्मैथुनप्रवर्तकः खल्वाटसगोत्रसमयस्त्र्यभिगामी पितृमातृभगिनीस्च्यभिगाम्यावीजितस्तेषां कुब्ज