________________
१८६०
बौधायनस्मृतिः। [नवमोश्रद्धायै प्रज्ञायै मेधायै श्रियै ह्रिय सवित्रे सावित्र्यै सदसस्पतयेऽनुमतये च हुत्वा वेदादिमारभेत सततमधीयीत नान्तरा व्याहरेन चान्तरा बिरमेत् ॥४ अथान्तरा व्याहरेदथान्तरा विरमेस्त्रीन्प्राणायामानायम्य वृत्तान्तादेवाऽऽरभेत ॥५ अप्रतिमायां यावता कालेन न वेद तावन्तं कालं तदधीयीत स यदा जानीयादुक्तो यजुष्टः सामत इति ॥६ तद्ब्राह्मणं तच्छान्दसं तदैवतमधीयीत ॥७ द्वादश वेदसंहिता अधीयीत ।।८ यदनेनानध्यायेऽधोयीत यद्गुरवः कोपिता यान्यकार्याणि भवन्ति ताभिः पुनीते ॥ शुद्धमस्य पूतं ब्रह्म भवति ॥१० अत ऊवं संचयः ॥११ अपरा द्वादश वेदसंहिता अधीत्य ताभिरुशनसो लोकमवाप्नोति ॥१२ अपरा द्वादश वेदसंहिता अधीत्य ताभिवृहस्पतेर्लोकमवाप्नोति ॥१३ अपरा द्वादश वेदसंहिता अधीत्य ताभिः प्रजापतेर्लोकमवाप्नोति।। १४ अनश्नन्संहितासहस्रमधीयीत ब्रह्मभूतो विरजो ब्रह्म भवति ॥१५ संवत्सरं भैक्षं प्रयुञ्जानो दिव्यं चक्षुर्लभते ॥१६ षण्मासान्यावकभक्षश्चतुरो मासानुदकसक्तुभक्षो द्वौ मासौ