________________
sध्यायः ] याप्यकर्मणोपेतस्य निष्क्रयार्थं जपादिनिरूपणम् १८६१
फलभक्षो मासमब्भक्षो द्वादशरात्रं वा प्राश्नन्क्षित्रमन्तर्धीयते ज्ञातीन्पुनाति सप्तावरान्सप्त पूर्वानात्मानं पञ्चदशं पक्ति च पुनाति ॥१७ तामेतां देवनिश्रयणीमित्याचक्षते ॥१८
एतया वै देवा देवस्त्रमगच्छन्नृषय षित्वम् ॥१६ तस्य ह वा एतस्य यज्ञस्य त्रिविध एवाऽऽरम्भकालः प्रातः सवने माध्यंदिने सवने ब्राह्मे वाऽपररात्रे ॥२० तं वा एतं प्रजापतिः सप्तर्षिभ्यः प्रोवाच सप्तर्षयो महाजज्ञवे महाजज्ञैर्ब्राह्मणेभ्यो ब्राह्मणेभ्यः ॥२१ इति तृतीयप्रश्ने नवमोऽध्यायः ।
अथ तृतीयप्रश्ने दशमोऽध्यायः ।
अथ याप्यकर्मण्योपेतस्य निष्कयार्थं जपादिनिरूपणम् ।
उक्त वर्णधर्मश्वाश्रमधर्मश्च ॥ १
अथ खल्वयं पुरुषो याप्येन कर्मणा मिथ्या चरत्ययाज्यं वा याजयत्यप्रतिप्राह्यस्य वा प्रतिगृह्णात्यनाश्यान्नस्य वाऽन्नमश्नात्यचरणीयेन वा चरति तत्र प्रायश्चित्तं कुर्यान्न कुर्यादिति मीमांसन्ते ॥२
न हि कर्म क्षीयत इति कुर्यादित्येव ||३
पुनः स्तोमेन यजेत ॥४ पुनः सवनमायान्तीति ॥५